हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Shiva Manasika Puja Stotram – शिवमानसिकपूजा स्तोत्रम्
अनुचितमनुलपितं मे त्वयि शंभो शिव तदागसश्शान्त्यै ।
अर्चां कथमपि विहितामङ्गीकुरु सर्वमङ्गलोपेत ॥ १ ॥
ध्यायामि कथमिव त्वां धीवर्त्मविदूर दिव्यमहिमानम् ।
आवाहनं विभोस्ते देवाग्र्य भवेत्प्रभो कुतः स्थानात् ॥ २ ॥
कियदासनं प्रकल्प्यं कृतासनस्येह सर्वतोऽपि सह ।
पाद्यं कुतोऽर्घ्यमपि वा पाद्यं सर्वत्रपाणिपादस्य ॥ ३ ॥
आचमनं ते स्यादधिभगवन् ते सर्वतोमुखस्य कथम् ।
मधुपर्को वा कथमिह मधुवैरिणि दर्शितप्रसादस्य ॥ ४ ॥
स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धस्य ।
वस्त्रेणापि न कार्यं देवाधिपते दिगंबरस्येह ॥ ५ ॥
स्फुरति हि सर्पाभरणं सर्वाङ्गे सर्वमङ्गलाकार ।
अतिवर्णाश्रमिणस्तेऽस्त्युपवीतेनेह कश्चिदुत्कर्षः ॥ ६ ॥
गन्धवती हि तनुस्ते गन्धाः किं नेश पौनरुक्ताय ।
पुष्कलफलदातारं पुष्करकुसुमेन पूजयामि त्वाम् ॥ ७ ॥
शमधनमूलधनं त्वां सकलेश्वर भवसि धूपितः केन ।
दीपः कथं शिखावान् दीप्येत पुरः स्वयंप्रकाशस्य ॥ ८ ॥
अमृतात्मकमपि भगवन्नशनं किन्नाम नित्यतृप्तस्य ।
त्वय्याम्रेडितमेतत्तांबूलं यदिह सुमुखरागाय ॥ ९ ॥
उपहारीभूयादिदमुमेश यन्मे विचेष्टितमशेषम् ।
नीराजयामि तमिमं नानात्मानं सहाखिलैः करणैः ॥ १० ॥
सुमनश्शेखर भव ते सुमनोऽञ्जलिरेष को भवेच्छंभो ।
छत्रं द्युमन् द्युमार्धन् चामरमपि किं जितश्रमस्य तव ॥ ११ ॥
नृत्यं प्रथतां कथमिव नाथ तवाग्रे महानटस्येह ।
गीतं किं पुरवैरिन् गीतागममूलदेशिकस्य पुरः ॥ १२ ॥
वाद्यं डमरु भृतस्ते वादयितुं ते पुरोऽस्ति का शक्तिः ।
अपरिच्छिन्नस्य भवेदखिलेश्वर कः प्रदक्षिणविधिस्ते ॥ १३ ॥
स्युस्ते नमांसि कथमिव शङ्कर परितोऽपि विद्यमानस्य ।
वाचामगोचरे त्वयि वाक्प्रसरो मे कथं सुसंभवतु ॥ १४ ॥
नित्यानन्दाय नमो निर्मलविज्ञानविग्रहाय नमः ।
निरवधिकरुणाय नमो निरवधिविभवाय तेजसेऽस्तु नमः ॥ १५ ॥
सरसिजविपक्षचूडः सगरतनूजन्मसुकृतमूर्धाऽसौ ।
दृक्कूलङ्कषकरुणो दृष्टिपथे मेऽस्तु धवलिमा कोऽपि ॥ १६ ॥
जगदाधारशरासं जगदुत्पादप्रवीणयन्तारम् ।
जगदवनकर्मठशरं जगदुद्धारं श्रयामि चित्सारम् ॥ १७ ॥
कुवलयसहयुध्वगलैः कुलगिरिकूटस्थकवचितार्धाङ्गैः ।
कलुषविदूरैश्चेतः कबलितमेतत्कृपारसैः किञ्चित् ॥ १८ ॥
वसनवतेकत्कृत्त्या वासवते रजतशैलशिखरेण ।
वलयवते भोगभृता वनितार्धाङ्गाय वस्तुनेऽस्तु नमः ॥ १९ ॥
सरसिजकुवलय-जागरसंवेशन जागरूकलोचनतः ।
सकृदपि नाहं जाने सुतरान्तं भाष्यकारमञ्जीरात् ॥ २० ॥
आपाटलजूटाना-मानीलच्छायकन्धरा-सीम्नाम् ।
आपाण्डुविग्रहाणामाद्रुहिणं किङ्करा वयं महसाम् ॥ २१ ॥
मुषितस्मरावलेपे मुनितनयायुर्वदान्यपदपद्मे ।
महसि मनो रमतां मे मनसि दयापूरमेदुरापाङ्गे ॥ २२ ॥
शर्मणि जगतां गिरिजानर्मणि सप्रेमहृदयपरिपाके ।
ब्रह्मणि विनमद्रक्षणकर्मणि तस्मिन्नुदेतु भक्तिर्मे ॥ २३ ॥
कस्मिन्नपि समये मम कण्ठच्छायाविधूतकालाभ्रम् ।
अस्तु पुरो वस्तु किमप्यर्धाङ्गेदरमुन्मिषन्निटलम् ॥ २४ ॥
जटिलाय मौलिभागे जलधर नीलाय कन्धराभोगे ।
धवलाय वपुषि निखिले धाम्नेस्स्यान्मानसे नमोवाकः ॥ २५ ॥
अकरविराजत्सुमृगै-रवृषतुरङ्गै-रमौलिधृतगङ्गैः ।
अकृतमनोभवभङ्गैरलमन्यैर्जगति दैवतं मन्यैः ॥ २६ ॥
कस्मै वच्मि दशां मे कस्येदृग्घृदयमस्ति शक्तिर्वा ।
कस्य बलं चोद्धर्तुं क्लेशात्त्वामन्तरा दयासिन्धो ॥ २७ ॥
याचे ह्यनभिनवं ते चन्द्रकलोत्तंस किञ्चिदपि वस्तु ।
मह्यं प्रदेहि भगवन् मदीयमेव स्वरूपमानन्दम् ॥ २८ ॥
भगवन्बालतया वाऽभक्त्या वाऽप्यापदाकुलतया वा ।
मोहाविष्टतया वा माऽस्तु च ते मनसि यद्दुरुक्तं मे ॥ २९ ॥
यदि विश्वाधिकता ते यदि निगमागमपुराणयाथार्थ्यम् ।
यदि वा भक्तेषु दया तदिह महेशाशु पूर्णकामस्स्याम् ॥ ३० ॥
इति शिवानन्दावधूतरचित शिवमानसिकपूजास्तोत्रम् ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright 2019-2025 © sanatanadharm.com All Rights Reserved . Made in India.